Analyse verbale
- Comprendre les préverbes et leur rôle dans la formation des verbes
- Source du texte (Wisdom Library) : Mahābhārata – Livre ii, Chapitre 54
- Pour aller plus loin : Note sur le jeu de dés de Śiva et Pārvatī
- Cliquer sur les formes verbales dans les versets ci-dessous.
- Vérifier les réponses à l’aide du bouton sous le tableau.
- Le cas échéant, recliquer sur une mauvaise réponse.
- Le bouton efface les réponses de l’onglet sélectionné.
Exercice
|
युधिष्ठिर उवाच। मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम्। शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ॥१॥ |
|
इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम्। कोशो हिरण्यमक्षय्यं जातरूपमनेकशः। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२॥ |
|
वैशंपायन उवाच। इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् ॥३॥ |
|
युधिष्ठिर उवाच। अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः। सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ॥४॥ |
|
संह्रादनो राजरथो य इहास्मानुपावहत्। जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ॥५॥ |
|
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः। वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन्। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥६॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥७॥ |
|
युधिष्ठिर उवाच। सहस्रसंख्या नागा मे मत्तास्तिष्ठन्ति सौबल। हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ॥८॥ |
|
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि। ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ॥९॥ |
|
सर्वे च पुरभेत्तारो नगमेघनिभा गजाः। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥१०॥ |
|
वैशंपायन उवाच। तमेवंवादिनं पार्थं प्रहसन्निव सौबलः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥११॥ |
|
युधिष्ठिर उवाच। शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥१२॥ |
|
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ॥१३॥ |
|
अनुसेवां चरन्तीमाः कुशला नृत्यसामसु। स्नातकानाममात्यानां राज्ञां च मम शासनात्। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥१४॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥१५॥ |
|
युधिष्ठिर उवाच। एतावन्त्येव दासानां सहस्राण्युत सन्ति मे। प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ॥१६॥ |
|
प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः। पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥१७॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥१८॥ |
|
युधिष्ठिर उवाच। रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः। हयैर्विनीतैः संपन्ना रथिभिश्चित्रयोधिभिः ॥१९॥ |
|
एकैको यत्र लभते सहस्रपरमां भृतिम्। युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२०॥ |
|
वैशंपायन उवाच। इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान्। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२१॥ |
|
युधिष्ठिर उवाच। अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः। ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२२॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२३॥ |
|
युधिष्ठिर उवाच। रथानां शकटानां च हयानां चायुतानि मे। युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ॥२४॥ |
|
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः। क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ॥२५॥ |
|
षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२६॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२७॥ |
|
युधिष्ठिर उवाच। ताम्रलोहैः परिवृता निधयो मे चतुःशताः। पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ॥२८॥ |
|
वैशंपायन उवाच। एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥२९॥ |